|| Devi Mahatmyam||

|| Devi Sapta Sati||

||Chapter 8||


||om tat sat||

Select text in Devanagari Kannada Gujarati English
उत्तर चरितमु
महासरस्वती ध्यानम्

घण्टाशूलहलानि शंखमुसले चक्रं धनुः सायकं
हस्ताब्जैर्दधतीं घनान्तविलसत् शीतांशु तुल्यप्रभाम्।
गौरीदेहसमुद्भवां त्रिजगताम् आधारभूतां महा
पूर्वामत्र सरस्वतीमनुभजे शुम्भादि दैत्यार्दिनीम्॥

॥ओम् तत् सत्॥
=============
अष्टमाध्यायः ॥

ऋषिरुवाच॥

चण्डे च निहते दैत्ये मुण्डे च विनिपातिते।
बहुळेषु च सैन्येषु क्षयितेष्वसुरेश्वरः॥1||

ततः कोपपराधीनचेताः शुम्भः प्रतापवान्।
उद्योगं सर्वसैन्यानां दैत्यानाम् आदिदेश ह ॥2||

अद्य सर्वबलैः दैत्याः षडशीतिरुदायुधाः।
कम्बूनां चतुरशीतिर्निर्यान्तु स्वबलैर्वृताः॥3||

कोटिवीर्याणि पंचाशत् असुराणां कुलानि वै।
शतं कुलानि धौम्राणां निर्गच्छन्तु ममाज्ञया॥4||

कालका दौर्हृदा मौर्याः कालकेयाः तथासुराः।
युद्धाय सज्जा निर्यान्तु आज्ञया त्वरिता मम॥5||

इत्याज्ञाप्यासुरपतिः शुम्भो भैरवशासनः।
निर्जगाम महासैन्यसहस्रैः बहुभिर्वृतः॥6||

आयान्तं चण्डिका दृष्ट्वा तत्सैन्य मति भीषणम्।
ज्यास्वनैः पूरयामास धरणी गगनान्तरम्॥7||

ततः सिंहोमहानादम् अतीव कृतवान्नृप।
घण्टास्वनेन तान्नादान् अम्बिका चोपबृंहयत् ॥8||

धनुर्ज्यासिंहघण्टानां नादापूरितदिंग्मुखा।
निनादैर्भीषणैः काळी जिग्ये विस्तारितानना॥9||

तं निनादमुपश्रुत्य दैत्यसैन्यैश्चतुर्दिशम्।
देवी सिंहस्तथा काळी सरोषैः परिवारिता॥10||

एतस्मिन्नन्तरे भूप विनाशाय सुरद्विषाम्।
भवायामरसिंहानाम् अतिवीर्य बलान्विताः॥11||

ब्रह्मेश गुह विष्णूनां तथेन्द्रस्य च शक्तयः।
शरीरेभ्यो विनिष्क्रम्य तद्रूपैः चण्डिकां युयुः॥12||

यस्यदेवस्य यद्रूपं यथा भूषणवाहनम्।
तद्वदेव हि तत् शक्तिः असुरान्योद्धुमाययौ॥

हंसयुक्त विमानाग्रे साक्षसूत्र कमंडुलुः।
आयाता ब्रह्मणः शक्तिः ब्रह्माणी साभिधीयते॥13||

माहेश्वरी वृषारूडा त्रिशूलवरधारिणी।
महाहिवलया प्राप्ता चन्द्ररेखा विभूषणा॥14||

कौमारी शक्ति हस्ता च मयूरवरवाहना।
योधुमभ्याययौ दैत्यानम्बिका गुहरूपिणी॥15||

तथैव वैष्णवी शक्तिः गरुडोपरि संस्थिता।
शंखचक्रगदाशारङ्ग खड्गहस्ताभ्युपाययौ॥16||

यज्ञवाराहमतुलं रूपं या बिभ्रतो हरेः।
शक्तिः साप्याययौ तत्र वाराहीं बिभ्रती तनुम्॥17||

नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः ।
प्राप्ता तत्र सटाक्षेप क्षिप्तनक्षत्र संहतिः॥18||

वज्रहस्ता तथैवैन्द्री गजराजोपरि स्थिता।
प्राप्ता सहस्र नयना यथा शक्रः तथैव सा॥19||

ततः परिवृतस्ताभिरीशानो देवशक्तिभिः।
हन्यन्तामसुराः शीघ्रं ममप्रीत्याह चण्डिकाम्॥20||

ततो देवी शरीरात्तु विनिष्क्रान्तातिभीषणा।
चण्डिका शक्तिरत्युग्रा शिवाशतनिनादिनी॥21||

सा चाहा धूम्रजटिल मीशानमपराजिता।
दूतस्त्वं गच्छ भगवान् पार्श्वं शुम्भनिसुम्भयोः॥22||

ब्रूहि शुम्भनिशुम्भं च दानवावति गर्वितौ।
ये चान्ये दानवास्तत्र युद्धाय समुपस्थितः॥23||

तैलोक्यमिन्द्रो लभतां देवाः सन्तु हविर्भुजः।
यूयं प्रयात पाताळं यदि जीवितुमिच्छथ॥24||

बलावले पादथचेत् भवन्तो युद्धकांक्षिणः।
तथागच्छत तृप्त्यन्तु मच्छिवाः पिशितेन वः॥25||

यतो नियुक्तो दौत्येन तया देव्या शिवः स्वयम्।
शिवदूतीति लोकेऽस्मिन् स्ततः सा ख्यातिमागता॥26||

तेऽपि श्रुत्वा वचो देव्याः शर्वाख्यातम् महासुराः।
अमर्षापूरिता जग्मुर्यतः कात्यायनी स्थिता॥27||

ततः प्रथममेवाग्रे शरशक्त्यृष्टिवृष्टिभिः।
ववर्षुरुद्धतामर्षाः तां देवीममरारयः॥28||

सा च तान् प्रहितान् बाणान् शूलशक्तिपरश्वथान्।
चिच्छेदलीलयाध्मात धनुर्मुक्तैर्महेषुभिः ॥29||

तस्याग्रतः तथा काळी शूलपातविदारितान्।
खट्वाङ्गपोथितां शारीन् कुर्वन्ती व्यचरत्तथा॥30||

कमण्डुलुजलाक्षेप हतवीर्यान् हतौजसः।
ब्रह्माणी चाकरोत् शत्रून् येन येन स्मधावति॥31||

माहेश्वरी त्रिशूलेन तथा चक्रेण वैष्णवी।
दैत्यान् जघान कौमारी तथा शक्त्यातिकोपना॥32||

ऐन्द्री कुलिशपातेन शतशो दैत्यदानवाः।
पेतुर्विदारिताः पृथ्व्यां रुधिरौघप्रवर्षिणः॥33||

तुण्दप्रहारविध्वस्था दंष्ट्राग्र क्षतवक्षसः।
वाराहमूर्त्या न्यपतंश्चक्रेण च विदारिताः॥34||

नखैर्विदारितांश्चान्यान् भक्षयन्ती महासुरान्।
नारसिंही चचाराजौ नादापूर्ण दिगम्बरा॥35||

चण्डाट्टहासैः असुराः शिवदूत्यभिदूषिताः।
पेतुः पृथिव्यां पतितां स्तांश्चखादाथ सा तदा॥36||

इति मातृगणं क्रुद्धं मर्दयन्तं महासुरान्।
दृष्ट्वाभ्युपायैः विविधैर्नेशुर्देवारि सैनिकाः॥37||

पलायन परान्दृष्ट्वा दैत्यान् मातृगणार्दितान् ।
योद्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुरः॥38||

रक्तबिन्दुर्यदा भूमौ पततस्य शरीरतः।
समुत्पतति मेदिन्यां तत्प्रमाणः तदासुरः॥39||

युयुधे स गदापाणिः इन्द्रशक्त्या महासुरः।
ततश्चैन्द्री स्ववज्रेण रक्तबीजमताडयत् ॥40||

कुलिशेनाहतस्याशु बहु सुश्राव शोणितम्।
समुत्तस्थुः ततो योधाः तद्रूपाः तत्पराक्रमाः॥41||

यावन्तः पतितास्तस्य शरीरात् रक्तबिन्दवः।
तावन्तः पुरुषाजाताः तद्वीर्यबलविक्रमाः॥42||

ते चापि युयुधुस्तत्र पुरुषा रक्त सम्भवाः।
समं मातृभिरत्युग्र शस्त्रपातातिभीषणम्॥43||

पुनश्च वज्रपातेन क्षतमस्य शिरो यथा।
ववाह रक्तं पुरुषाः ततो जाताः सहश्रसः॥44||

वैष्णवी समरे चैनं चक्रेणाभिजघान ह ।
गदया ताडयामास ऐन्द्री तमसुरेश्वरम्॥45||

वैष्णवीचक्रभिन्नस्य रुधिरस्रावसम्भवैः।
सहस्रसो जगद्व्याप्तं तत्प्रमाणैः महासुरैः॥46||

शक्त्या जघान कौमारी वाराही च तथासिना।
माहेश्वरी त्रिशूलेन रक्तबीजं महासुरम्॥47||

स चापि गदया दैत्यः सर्वा एवाहनत् पृथक्।
मातॄः कोपसमाविष्टो रक्तबीजो महासुरः॥48||

तस्याहतस्य बहुधा शक्तिशूलादिभिः भुवि।
पपात यो वै रक्तौघः तेन सञ्छतशोऽसुराः॥49||

तैश्चासुरासृक्सम्भूतैः असुरैः सकलं जगत्।
व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम्॥50||

तान् विषण्णान् सुरान् दृष्ट्वा चण्डिका प्राहसत्वरा।
उवाच काळीं चामुण्डे विस्तीर्णं वदनं कुरु॥51||

मच्छस्त्रपातसम्भूतान् रक्तबिन्दून् महासुरान्।
रक्तबिन्दोः प्रतीच्छ त्वं वक्त्रेणानेन वेगिता॥52||

भक्षयन्ती चर रणे तदुत्पन्नान् महासुरान्।
एवमेष क्षयं दैत्यः क्षीणरक्तो गमिष्यति ॥53||

भक्ष्यमाणाः त्वयाचोग्रा नचोत्पत्स्यन्ति चापरे।
इत्युक्त्वा तां ततो देवी शूलेनाभि जघान तम्॥59||

मुखेन काळी जगृहे रक्तबीजस्य शोणितम्।
ततोऽसावाजघानाथ गदया तत्र चण्डिकाम्॥60||

न चास्या वेदनां चक्रे गदापातोऽल्पिकामपि।
तस्याहतस्य देहात्तु बहु शुश्राव शोणितम्॥61||

यतः ततस्तत् वक्त्रेण चामुण्डा सम्प्रतीच्छति।
मुखे समुद्गता येऽस्या रक्तपातान् महासुराः॥62||

तांश्चखादाथ चामुण्डा पपौ तस्य च शोणितम्।63||

देवी शूलेन वज्रेण बाणैरसुभिर् ऋष्टिबिः ।
जघान रक्तबीजं तं चामुण्डा पीतशोणितम्॥64||

स पपात महीपृष्टे शस्त्रसंघसमाहतः।
नीरक्तश्च महीपाल रक्तबीजो महासुरः॥65||

ततस्ते हर्षमतुलमवापुस्त्रिदशा नृप।
तेषां मातृगणो जाता ननर्तासृज्ञ्मदोद्धतः॥66||

इति मार्कण्डेय पुराणे सावर्णिके मन्वन्तरे
देवी महात्म्ये रक्तबीज वथो नाम
अष्टमाध्यायः ॥
॥ ओम् तत् सत्॥
=====================================
updated 14 09 2022 2000